श्रावणमासस्य तृतीयसोमवारे राष्ट्रस्य विविधेषु शिवालयेषु भक्तैः सम्पन्नं जलाभिषेकम्

जय बाबा निलकंठ

विनोद झा : श्रावणमासस्य पावनपर्वणि तृतीयस्य सोमवासरः विशेषरूपेण पूज्यते। अस्मिन् पावने दिने राष्ट्रस्य समस्तप्रदेशेषु स्थितेषु शिवालयेषु सहस्रशः भक्ताः एकत्र समागत्य भगवतः शङ्करस्य जलाभिषेकं कृतवन्तः। काश्यां विश्वनाथमन्दिरे, उज्जयिन्यां महाकालेश्वरे, केदारनाथे च विशेषतः दर्शनार्थं भक्तजनाः आगत्य भक्तिभावेन पूजनं समपादयन्।

जलभिषेकस्य समये “ॐ नमः शिवाय” इति महाशब्देन समस्तं वातावरणं शिवमयं जातम्। काञ्चनकलशैः, गङ्गाजलैः, दुग्धेन, चन्दनेन च भक्ताः महादेवस्य अभिषेकं कृत्वा स्वकल्याणं प्रार्थितवन्तः।

कावेर्या गङ्गायाः यमुना सरस्वत्या च जलं संग्रह्य अनेकैः श्रद्धालुभिः पाद्यं, अर्घ्यं च समर्पितम्। अनेकेषां शिवमन्दिराणां परिसरं पुष्पवाटिकया भूषितम्, दीपशिखाभिः उज्ज्वलितम् च आसीत्।

पञ्चामृतेन, बिल्वपत्रैः, अक्षतैः च महादेवस्य सम्पूर्णं पूजनं विधिवत् सम्पन्नम्। श्रद्धायाः एवं भक्तेः दृश्यं लोकोत्तरं दृष्यमानम् आसीत्।

एवं श्रावणमासस्य तृतीयसोमवारे राष्ट्रेण शिवभक्तिभावस्य अनुपमं दर्शनं दृष्टम्।

 हर हर महादेव 

Post a Comment

Previous Post Next Post